________________
ÜZENTALE BUURTETE BACH
DIGESTI
TAMASTEING Pasch
सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ।
REET STETI
sista
M
1
B
* श्रीगणेशायनमः * ॥ ॐ नमो भगवते वासुदेवाय ॥ श्रीमन्महर्षि वेदव्यासप्रणीतम्
स्कन्दपुराणम्
तत्रादौ प्रथमं माहेश्वरखण्डम्प्रारभ्यते
प्रथमोऽध्यायः
मङ्गलाचरणवर्णनम्
ॐ नारायणं नमस्कृत्य नरं चैव नरोत्तमम् | देवीं सरस्वतीं चैव ततो जयमुदीरयेत
व्यास उवाच
यस्याऽऽज्ञया जगत्स्रष्टा विरञ्चिःपालकोहरिः ।
संहर्त्ता कालरुद्राख्यो नमस्तस्मै पिनाकिने ॥ २ ॥
|
तीर्थानामुत्तमं तीर्थं क्षेत्राणां क्षेत्रमुत्तमम् । तत्रैवनैमिषारण्येशौनकाद्यास्तपोधनाः दीर्घसत्रं प्रकुर्वन्तः सत्रिणः कर्मचेतसः ॥ ३ ॥
तेषां सन्दर्शनौत्सुक्यादागतो हि महातपाः ।
व्यासशिष्यो महाप्राज्ञो लोमशो नाम नामतः ॥ ५ ॥
तत्रागतं ते दद्वशुर्मुनयो दीर्घसत्रिणः । उत्तस्थुर्युगपत्सर्वे सार्घ्यहस्ताः समुत्सुकाः
दत्त्वाऽर्घ्यपाद्यं सत्कृत्य मुनयो वीतकल्मषाः ।
तं पप्रच्छुर्महाभागाः शिवधर्मं सविस्तरम् ॥ ६